gita-chapter-1
[00:06.90] अथ श्रीमद्भगवद्गीता
[00:17.15] प्रथमोஉध्यायः ।
[00:22.16] धृतराष्ट्र उवाच ।
[00:26.16] धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
[00:33.16] मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥
[00:39.16] सञ्जय उवाच ।
[00:43.91] दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
[00:51.66] आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ 2 ॥
[00:58.41] पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
[01:06.16] व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 3 ॥
[01:12.41] अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
[01:19.41] युयुधानो विराटश्च द्रुपदश्च महारथः ॥ 4 ॥
[01:26.16] धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
[01:33.91] पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ 5 ॥
[01:40.41] युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
[01:46.66] सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ 6 ॥
[01:54.41] अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
[02:01.16] नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ॥ 7 ॥
[02:08.16] भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
[02:14.91] अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ 8 ॥
[02:21.91] अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
[02:28.41] नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 9 ॥
[02:35.91] अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
[02:42.66] पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ 10 ॥
[02:49.66] अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
[02:55.91] भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ 11 ॥
[03:02.91] तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
[03:09.90] सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ 12 ॥
[03:17.41] ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
[03:24.41] सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोஉभवत् ॥ 13 ॥
[03:31.16] ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
[03:37.91] माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदघ्मतुः ॥ 14 ॥
[03:44.66] पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
[03:52.91] पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ 15 ॥
[03:59.66] अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
[04:06.40] नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ 16 ॥
[04:11.91] काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
[04:18.91] धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ 17 ॥
[04:26.16] द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
[04:33.16] सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ 18 ॥
[04:40.41] स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
[04:47.16] नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ 19 ॥
[04:53.66] अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
[05:01.16] प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ 20 ॥
[05:08.41] हृषीकेशं तदा वाक्यमिदमाह महीपते ।
[05:15.16] अर्जुन उवाच ।
[05:19.66] सेनयोरुभयोर्मध्ये रथं स्थापय मेஉच्युत ॥ 21 ॥
[05:27.16] यावदेतान्निरीक्षेஉहं योद्धुकामानवस्थितान् ।
[05:33.15] कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ 22 ॥
[05:41.16] योत्स्यमानानवेक्षेஉहं य एतेஉत्र समागताः ।
[05:47.16] धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ 23 ॥
[05:54.66] सञ्जय उवाच ।
[05:59.91] एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
[06:05.91] सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ 24 ॥
[06:12.41] भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
[06:20.16] उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ 25 ॥
[06:26.91] तत्रापश्यत्स्थितान्पार्थः पितूनथ पितामहान् ।
[06:33.66] आचार्यान्मातुलान्भ्रातून्पुत्रान्पौत्रान्सखींस्तथा ॥ 26 ॥
[06:41.66] श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
[06:47.91] तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ 27 ॥
[06:55.66] कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
[07:02.41] अर्जुन उवाच ।
[07:07.91] दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ 28 ॥
[07:13.91] सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
[07:19.91] वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ 29 ॥
[07:26.66] गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
[07:33.41] न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ 30 ॥
[07:40.16] निमित्तानि च पश्यामि विपरीतानि केशव ।
[07:46.41] न च श्रेयोஉनुपश्यामि हत्वा स्वजनमाहवे ॥ 31 ॥
[07:53.66] न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
[08:00.91] किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ 32 ॥
[08:07.91] येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
[08:15.16] त इमेஉवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ 33 ॥
[08:22.66] आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
[08:29.66] मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ 34 ॥
[08:37.16] एतान्न हन्तुमिच्छामि घ्नतोஉपि मधुसूदन ।
[08:44.16] अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ 35 ॥
[08:51.16] निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
[08:58.66] पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ 36 ॥
[09:06.16] तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
[09:13.91] स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ 37 ॥
[09:20.16] यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
[09:27.41] कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ 38 ॥
[09:33.91] कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
[09:40.91] कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ 39 ॥
[09:47.16] कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
[09:53.91] धर्मे नष्टे कुलं कृत्स्नमधर्मोஉभिभवत्युत ॥ 40 ॥
[10:00.91] अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
[10:07.16] स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ 41 ॥
[10:14.66] सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
[10:21.41] पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ 42 ॥
[10:28.16] दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
[10:35.91] उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ 43 ॥
[10:42.91] उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
[10:49.91] नरकेஉनियतं वासो भवतीत्यनुशुश्रुम ॥ 44 ॥
[10:56.91] अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
[11:02.91] यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ 45 ॥
[11:09.66] यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
[11:16.41] धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ 46 ॥
[11:23.91] सञ्जय उवाच ।
[11:28.41] एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
[11:36.06] विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ 47 ॥
[11:43.06] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
[11:52.80] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
[12:02.05] अर्जुनविषादयोगो नाम प्रथमोஉध्यायः ॥1 ॥
