gita-chapter-12
[00:00.37] अथ द्वादशोஉध्यायः ।
[00:04.86] अर्जुन उवाच ।
[00:08.37] एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
[00:16.37] ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥
[00:23.87] श्रीभगवानुवाच ।
[00:27.62] मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
[00:35.37] श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥
[00:42.36] ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
[00:49.62] सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥
[00:55.87] संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
[01:02.61] ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ ४ ॥
[01:09.87] क्लेशोஉधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
[01:16.37] अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ ५ ॥
[01:22.87] ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
[01:29.12] अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥
[01:35.87] तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
[01:42.36] भवामिन चिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥
[01:48.87] मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
[01:55.37] निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ ८ ॥
[02:02.37] अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
[02:08.87] अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ ९ ॥
[02:15.62] अभ्यासेஉप्यसमर्थोஉसि मत्कर्मपरमो भव ।
[02:22.12] मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥
[02:28.87] अथैतदप्यशक्तोஉसि कर्तुं मद्योगमाश्रितः ।
[02:35.28] सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥
[02:41.92] श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
[02:48.66] ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
[02:56.12] अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
[03:03.16] निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १३ ॥
[03:09.12] सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
[03:15.87] मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १४ ॥
[03:23.12] यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
[03:30.87] हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥
[03:38.12] अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
[03:44.62] सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १६ ॥
[03:51.62] यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
[03:57.86] शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १७ ॥
[04:04.37] समः शत्रौ च मित्रे च तथा मानापमानयोः ।
[04:11.37] शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥
[04:17.87] तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
[04:24.37] अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १९ ॥
[04:30.62] ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
[04:37.12] श्रद्दधाना मत्परमा भक्तास्तेஉतीव मे प्रियाः ॥ २० ॥
[04:44.12] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
[04:52.62] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
[05:00.37] भक्तियोगो नाम द्वादशोஉध्यायः ॥ १२ ॥
[00:00.00] 5.08
