Lrc Player

gita-chapter-16

Unknown artist
[05:58.43]·Synced by Guest·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:00.39] अथ षोडशो‌உध्यायः ।

[00:04.38] श्रीभगवानुवाच ।

[00:08.38] अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।

[00:15.13] दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥

[00:21.88] अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।

[00:29.13] दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥

[00:36.13] तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।

[00:43.63] भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ ३ ॥

[00:50.13] दम्भो दर्पो‌உभिमानश्च क्रोधः पारुष्यमेव च ।

[00:56.63] अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥

[01:03.88] दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।

[01:10.88] मा शुचः सम्पदं दैवीमभिजातो‌உसि पाण्डव ॥ ५ ॥

[01:18.14] द्वौ भूतसर्गौ लोके‌உस्मिन्दैव आसुर एव च ।

[01:25.38] दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ ६ ॥

[01:32.38] प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।

[01:38.88] न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७ ॥

[01:45.37] असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।

[01:51.63] अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ ८ ॥

[01:57.88] एतां दृष्टिमवष्टभ्य नष्टात्मानो‌உल्पबुद्धयः ।

[02:04.88] प्रभवन्त्युग्रकर्माणः क्षयाय जगतो‌உहिताः ॥ ९ ॥

[02:11.88] काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।

[02:18.64] मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्ते‌உशुचिव्रताः ॥ १० ॥

[02:26.14] चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।

[02:33.38] कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥

[02:39.63] आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।

[02:47.13] ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥

[02:54.88] इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।

[03:00.63] इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥

[03:06.38] असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।

[03:12.88] ईश्वरो‌உहमहं भोगी सिद्धो‌உहं बलवान्सुखी ॥ १४ ॥

[03:19.38] आढ्यो‌உभिजनवानस्मि को‌உन्योस्ति सदृशो मया ।

[03:25.88] यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १५॥

[03:32.88] अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।

[03:39.63] प्रसक्ताः कामभोगेषु पतन्ति नरके‌உशुचौ ॥ १६ ॥

[03:46.01] आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।

[03:52.77] यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥

[04:00.01] अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।

[04:07.01] मामात्मपरदेहेषु प्रद्विषन्तो‌உभ्यसूयकाः ॥ १८ ॥

[04:13.66] तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।

[04:19.88] क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १९ ॥

[04:26.13] आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।

[04:32.63] मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ २० ॥

[04:39.13] त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।

[04:45.38] कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २१ ॥

[04:52.88] एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।

[04:59.63] आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ २२ ॥

[05:06.38] यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।

[05:12.88] न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ २३ ॥

[05:19.14] तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।

[05:26.13] ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ २४ ॥

[05:33.13] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

[05:40.88] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

[05:48.38] दैवासुरसम्पद्विभागयोगो नाम षोडशो‌உध्यायः ॥ १६ ॥

[00:00.00] 5.58