Lrc Player

gita-chapter-15

Unknown artist
[05:30.07]·Synced by Guest·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:01.16] अथ पञ्चदशो‌உध्यायः ।

[00:05.15] श्रीभगवानुवाच ।

[00:09.40] ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।

[00:16.90] छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥

[00:24.16] अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।

[00:33.41] अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥

[00:41.91] न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा ।

[00:50.41] अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥

[00:58.41] ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।

[01:07.15] तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥

[01:14.91] निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।

[01:23.90] द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ ५ ॥

[01:32.66] न तद्भासयते सूर्यो न शशाङ्को न पावकः ।

[01:40.16] यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥

[01:46.66] ममैवांशो जीवलोके जीवभूतः सनातनः ।

[01:53.90] मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥

[02:00.90] शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।

[02:07.91] गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥

[02:15.41] श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।

[02:22.91] अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥

[02:29.15] उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।

[02:36.41] विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥

[02:43.16] यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।

[02:51.41] यतन्तो‌உप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥

[02:58.91] यदादित्यगतं तेजो जगद्भासयते‌உखिलम् ।

[03:05.16] यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥

[03:12.41] गामाविश्य च भूतानि धारयाम्यहमोजसा ।

[03:18.66] पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १३ ॥

[03:26.41] अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।

[03:33.91] प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १४ ॥

[03:40.66] सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।

[03:49.41] वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥

[03:57.16] द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

[04:04.16] क्षरः सर्वाणि भूतानि कूटस्थो‌உक्षर उच्यते ॥ १६ ॥

[04:11.41] उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः ।

[04:18.66] यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥

[04:25.40] यस्मात्क्षरमतीतो‌உहमक्षरादपि चोत्तमः ।

[04:32.40] अतो‌உस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥

[04:39.16] यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।

[04:45.66] स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥

[04:51.91] इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।

[04:58.41] एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २० ॥

[05:05.66] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

[05:13.91] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

[05:21.91] पुरुषोत्तमयोगो नाम पञ्चदशो‌உध्यायः ॥ १५ ॥

[05:28.91] 5.30