gita-chapter-14
[00:00.54] अथ चतुर्दशोஉध्यायः ।
[00:04.79] श्रीभगवानुवाच ।
[00:09.28] परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
[00:17.28] यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १ ॥
[00:24.28] इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
[00:31.28] सर्गेஉपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥
[00:38.28] मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
[00:44.78] सम्भवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥
[00:51.29] सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
[00:58.53] तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ४ ॥
[01:05.29] सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
[01:11.78] निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥
[01:18.78] तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
[01:24.53] सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥
[01:31.54] रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
[01:38.78] तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥
[01:45.28] तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
[01:52.28] प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥
[01:58.79] सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
[02:05.29] ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ ९ ॥
[02:12.28] रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
[02:19.78] रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १० ॥
[02:26.03] सर्वद्वारेषु देहेஉस्मिन्प्रकाश उपजायते ।
[02:33.28] ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥
[02:40.28] लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
[02:47.53] रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥
[02:54.28] अप्रकाशोஉप्रवृत्तिश्च प्रमादो मोह एव च ।
[03:01.54] तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥
[03:08.28] यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
[03:15.28] तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥
[03:22.29] रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
[03:28.29] तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥
[03:34.53] कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
[03:41.28] रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥
[03:47.53] सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
[03:54.78] प्रमादमोहौ तमसो भवतोஉज्ञानमेव च ॥ १७ ॥
[04:01.04] ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
[04:08.03] जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १८ ॥
[04:14.79] नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
[04:22.03] गुणेभ्यश्च परं वेत्ति मद्भावं सोஉधिगच्छति ॥ १९ ॥
[04:28.79] गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
[04:35.93] जन्ममृत्युजरादुःखैर्विमुक्तोஉमृतमश्नुते ॥ २० ॥
[04:43.17] अर्जुन उवाच ।
[04:47.43] कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।
[04:54.83] किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ २१ ॥
[05:01.54] श्रीभगवानुवाच ।
[05:07.29] प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
[05:13.03] त द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥
[05:19.53] उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
[05:26.04] गुणा वर्तन्त इत्येव योஉवतिष्ठति नेङ्गते ॥ २३ ॥
[05:32.54] समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
[05:39.54] तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥
[05:46.54] मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
[05:55.04] सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ २५ ॥
[06:02.04] मां च योஉव्यभिचारेण भक्तियोगेन सेवते ।
[06:09.04] स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥
[06:16.03] ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
[06:22.68] शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ २७ ॥
[06:29.79] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
[06:38.78] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
[06:47.28] गुणत्रयविभागयोगो नाम चतुर्दशोஉध्यायः ॥ १४ ॥
[00:00.00] 6.57
