Lrc Player

gita-chapter-17

Unknown artist
[06:42.01]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:01.06] अथ सप्तदशो‌உध्यायः ।

[00:05.31] अर्जुन उवाच ।

[00:09.06] ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।

[00:15.56] तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १ ॥

[00:22.56] श्रीभगवानुवाच ।

[00:26.57] त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।

[00:33.06] सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ २ ॥

[00:39.56] सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।

[00:45.82] श्रद्धामयो‌உयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ ३ ॥

[00:52.82] यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।

[00:59.56] प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ ४ ॥

[01:06.56] अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।

[01:13.31] दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ ५ ॥

[01:20.07] कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।

[01:26.81] मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ ६ ॥

[01:34.06] आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।

[01:40.31] यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ ७ ॥

[01:47.31] आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।

[01:54.06] रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ ८ ॥

[02:01.31] कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।

[02:08.06] आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ९ ॥

[02:14.56] यातयामं गतरसं पूति पर्युषितं च यत् ।

[02:21.07] उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥

[02:26.81] अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।

[02:32.81] यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ ११ ॥

[02:39.56] अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।

[02:46.06] इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥

[02:52.31] विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।

[02:58.57] श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥

[03:04.81] देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।

[03:11.06] ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १४ ॥

[03:17.56] अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।

[03:24.06] स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १५ ॥

[03:30.06] मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।

[03:36.31] भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥

[03:42.81] श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।

[03:48.81] अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७ ॥

[03:55.31] सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।

[04:02.06] क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १८ ॥

[04:07.56] मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।

[04:14.07] परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १९ ॥

[04:20.57] दातव्यमिति यद्दानं दीयते‌உनुपकारिणे ।

[04:27.06] देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ २० ॥

[04:33.31] यत्तु प्रत्त्युपकारार्थं फलमुद्दिश्य वा पुनः ।

[04:40.06] दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ २१॥

[04:46.32] अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।

[04:52.82] असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२ ॥

[04:58.71] ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।

[05:05.11] ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥

[05:11.62] तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।

[05:18.62] प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ २४ ॥

[05:25.26] तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।

[05:31.25] दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ २५ ॥

[05:38.01] सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।

[05:44.76] प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ २६ ॥

[05:51.26] यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।

[05:57.01] कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥

[06:02.76] अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।

[06:09.65] असदित्युच्यते पार्थ न च तत्प्रेप्य नो इह ॥ २८ ॥

[06:16.65] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

[06:24.54] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

[06:32.93] श्रद्धात्रयविभागयोगो नाम सप्तदशो‌உध्यायः ॥ १७ ॥

[00:00.00] 6.41