gita-chapter-7
[00:00.32] अथ सप्तमोஉध्यायः ।
[00:05.81] श्रीभगवानुवाच ।
[00:10.81] मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
[00:19.31] असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥
[00:26.31] ज्ञानं तेஉहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
[00:34.06] यज्ज्ञात्वा नेह भूयोஉन्यज्ज्ञातव्यमवशिष्यते ॥ २ ॥
[00:41.31] मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
[00:48.31] यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३ ॥
[00:55.81] भूमिरापोஉनलो वायुः खं मनो बुद्धिरेव च ।
[01:02.97] अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥
[01:09.71] अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
[01:16.21] जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥
[01:23.97] एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
[01:31.47] अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६ ॥
[01:37.72] मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
[01:44.47] मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥
[01:51.11] रसोஉहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
[01:58.37] प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥
[02:05.12] पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
[02:12.62] जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥
[02:19.37] बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
[02:26.61] बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १०॥
[02:33.62] बलं बलवतां चाहं कामरागविवर्जितम् ।
[02:40.12] धर्माविरुद्धो भूतेषु कामोஉस्मि भरतर्षभ ॥ ११॥
[02:47.12] ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
[02:54.87] मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ १२॥
[03:02.12] त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
[03:09.36] मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३ ॥
[03:16.62] दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
[03:23.87] मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥
[03:31.12] न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
[03:38.62] माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ १५ ॥
[03:45.62] चतुर्विधा भजन्ते मां जनाः सुकृतिनोஉर्जुन ।
[03:52.62] आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥
[04:00.37] तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
[04:07.86] प्रियो हि ज्ञानिनोஉत्यर्थमहं स च मम प्रियः ॥ १७ ॥
[04:14.63] उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
[04:21.87] आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ १८ ॥
[04:29.02] बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
[04:36.16] वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥
[04:42.56] कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेஉन्यदेवताः ।
[04:51.22] तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २० ॥
[04:57.96] यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
[05:05.36] तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१॥
[05:11.86] स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
[05:19.36] लभते च ततः कामान्मयैव विहितान्हि तान् ॥ २२ ॥
[05:25.36] अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
[05:32.61] देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ २३ ॥
[05:39.61] अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
[05:46.87] परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥
[05:53.37] नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
[06:00.87] मूढोஉयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥
[06:07.86] वेदाहं समतीतानि वर्तमानानि चार्जुन ।
[06:15.11] भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥
[06:21.36] इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
[06:28.36] सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥ २७ ॥
[06:36.12] येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
[06:43.36] ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ २८ ॥
[06:51.12] जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
[06:57.86] ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥
[07:04.86] साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
[07:11.86] प्रयाणकालेஉपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥
[07:19.76] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
[07:31.50] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
[07:40.51] ज्ञानविज्ञानयोगो नाम सप्तमोஉध्यायः ॥ ७ ॥
[00:00.00] 7.51
