Lrc Player

gita-chapter-8

Unknown artist
[07:37.52]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:01.16] अथ अष्टमो‌உध्यायः ।

[00:05.41] अर्जुन उवाच ।

[00:08.66] किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।

[00:16.40] अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥

[00:23.16] अधियज्ञः कथं को‌உत्र देहे‌உस्मिन्मधुसूदन ।

[00:30.90] प्रयाणकाले च कथं ज्ञेयो‌உसि नियतात्मभिः ॥ २ ॥

[00:37.91] श्रीभगवानुवाच ।

[00:42.16] अक्षरं ब्रह्म परमं स्वभावो‌உध्यात्ममुच्यते ।

[00:48.91] भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ ३ ॥

[00:55.91] अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।

[01:03.16] अधियज्ञो‌உहमेवात्र देहे देहभृतां वर ॥ ४ ॥

[01:10.66] अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।

[01:17.66] यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ५ ॥

[01:25.16] यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।

[01:32.66] तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥

[01:40.16] तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।

[01:47.40] मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥ ७ ॥

[01:54.66] अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।

[02:01.66] परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥

[02:08.40] कविं पुराणमनुशासितारमणोरणीयंसमनुस्मरेद्यः ।

[02:17.40] सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ९ ॥

[02:26.66] प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ।

[02:35.16] भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥

[02:43.91] यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।

[02:52.41] यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥

[03:01.16] सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।

[03:08.16] मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ १२ ॥

[03:15.90] ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।

[03:23.66] यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥

[03:30.66] अनन्यचेताः सततं यो मां स्मरति नित्यशः ।

[03:37.65] तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥

[03:44.65] मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।

[03:52.15] नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥

[03:59.91] आब्रह्मभुवनाल्लोकाः पुनरावर्तिनो‌உर्जुन ।

[04:07.41] मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥

[04:14.41] सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।

[04:20.91] रात्रिं युगसहस्रान्तां ते‌உहोरात्रविदो जनाः ॥ १७ ॥

[04:28.41] अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।

[04:35.91] रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥ १८ ॥

[04:43.41] भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।

[04:50.66] रात्र्यागमे‌உवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥

[04:57.55] परस्तस्मात्तु भावो‌உन्यो‌உव्यक्तो‌உव्यक्तात्सनातनः ।

[05:05.80] यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥

[05:12.80] अव्यक्तो‌உक्षर इत्युक्तस्तमाहुः परमां गतिम् ।

[05:20.30] यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥

[05:27.05] पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।

[05:34.31] यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥

[05:41.55] यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।

[05:49.05] प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥

[05:56.31] अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् ।

[06:03.31] तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ २४ ॥

[06:10.55] धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।

[06:18.30] तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥

[06:25.55] शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।

[06:32.21] एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ २६ ॥

[06:39.36] नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।

[06:46.11] तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥

[06:53.36] वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।

[07:02.01] अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥

[07:11.77] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

[07:20.27] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

[07:28.52] अक्षरब्रह्मयोगो नामाष्टमो‌உध्यायः ॥ ८ ॥

[00:00.00] 7.37