gita-chapter-5
[00:00.40] अथ पञ्चमोஉध्यायः ।
[00:05.90] अर्जुन उवाच ।
[00:09.66] संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
[00:16.90] यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥
[00:24.15] श्रीभगवानुवाच ।
[00:28.65] संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
[00:35.16] तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ २ ॥
[00:42.15] ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
[00:49.65] निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥
[00:57.15] साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
[01:04.15] एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥
[01:11.16] यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
[01:18.66] एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५ ॥
[01:25.66] संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
[01:32.66] योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ६ ॥
[01:39.40] योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
[01:46.66] सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥
[01:53.40] नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
[02:00.40] पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ८ ॥
[02:07.40] प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
[02:13.40] इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥
[02:19.91] ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
[02:27.40] लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥
[02:33.91] कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
[02:40.30] योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ११ ॥
[02:47.30] युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
[02:54.30] अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२ ॥
[03:01.56] सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
[03:08.05] नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥
[03:14.81] न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
[03:22.05] न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥
[03:28.81] नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
[03:36.05] अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥
[03:43.05] ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
[03:50.80] तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥
[03:57.80] तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
[04:05.05] गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥
[04:12.05] विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
[04:19.05] शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥
[04:26.30] इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
[04:33.30] निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ १९ ॥
[04:40.55] न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
[04:48.05] स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ २० ॥
[04:54.56] बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
[05:02.30] स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ २१ ॥
[05:08.55] ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
[05:15.80] आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥
[05:22.31] शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
[05:30.05] कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥
[05:37.55] योஉन्तःसुखोஉन्तरारामस्तथान्तर्ज्योतिरेव यः ।
[05:46.05] स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोஉधिगच्छति ॥ २४ ॥
[05:53.30] लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
[06:00.05] छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥
[06:07.55] कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
[06:14.55] अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥
[06:21.30] स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
[06:29.30] प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥
[06:36.55] यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
[06:43.30] विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २८ ॥
[06:50.55] भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
[06:57.30] सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥
[07:05.95] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
[07:17.10] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
[07:26.35] कर्मसंन्यासयोगो नाम पञ्चमोஉध्यायः ॥ ५ ॥
[00:00.00] 7.37
