gita-chapter-9
[00:00.67] अथ नवमोஉध्यायः ।
[00:04.67] श्रीभगवानुवाच ।
[00:08.92] इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
[00:15.92] ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेஉशुभात् ॥ १ ॥
[00:23.17] राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
[00:29.81] प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
[00:36.46] अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
[00:43.71] अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
[00:50.46] मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
[00:56.95] मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ४ ॥
[01:03.71] न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
[01:10.46] भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥
[01:17.71] यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
[01:24.71] तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
[01:31.96] सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
[01:38.96] कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥
[01:45.70] प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
[01:52.71] भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥
[01:58.96] न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
[02:05.96] उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
[02:13.21] मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
[02:19.71] हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
[02:26.21] अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
[02:32.96] परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
[02:39.46] मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
[02:46.46] राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ १२ ॥
[02:53.71] महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
[03:00.96] भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥
[03:07.71] सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
[03:14.71] नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥
[03:21.96] ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
[03:29.21] एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
[03:35.96] अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
[03:42.45] मन्त्रोஉहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥
[03:48.71] पिताहमस्य जगतो माता धाता पितामहः ।
[03:55.71] वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ १७ ॥
[04:02.70] गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
[04:09.70] प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ १८॥
[04:15.96] तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
[04:23.21] अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥
[04:30.46] त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
[04:39.96] ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥
[04:48.71] ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
[04:57.95] एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ २१ ॥
[05:06.09] अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
[05:13.84] एषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥
[05:21.09] येஉप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
[05:28.09] तेஉपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥
[05:34.83] अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
[05:41.83] न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥
[05:48.59] यान्ति देवव्रता देवान्पितून्यान्ति पितृव्रताः ।
[05:55.34] भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोஉपि माम् ॥ २५ ॥
[06:02.08] पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
[06:09.84] तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ २६ ॥
[06:15.84] यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
[06:22.48] यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ २७ ॥
[06:28.98] शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
[06:35.72] संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २८ ॥
[06:42.72] समोஉहं सर्वभूतेषु न मे द्वेष्योஉस्ति न प्रियः ।
[06:49.97] ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ २९ ॥
[06:56.97] अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
[07:03.73] साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ३० ॥
[07:10.97] क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
[07:18.73] कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ३१ ॥
[07:25.47] मां हि पार्थ व्यपाश्रित्य येஉपि स्युः पापयोनयः ।
[07:33.23] स्त्रियो वैश्यास्तथा शूद्रास्तेஉपि यान्ति परां गतिम् ॥ ३२ ॥
[07:40.73] किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
[07:47.97] अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥
[07:54.73] मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
[08:01.73] मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥
[08:09.97] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
[08:18.73] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
[08:27.22] राजविद्याराजगुह्ययोगो नाम नवमोஉध्यायः ॥ ९ ॥
[00:00.00] 8.41
