gita-chapter-13
[00:01.68] अथ त्रयोदशोஉध्यायः ।
[00:05.43] अर्जुन उवाच ।
[00:08.82] प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।
[00:15.96] एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १ ॥
[00:23.20] श्रीभगवानुवाच ।
[00:27.45] इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
[00:34.45] एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ २ ॥
[00:40.96] क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
[00:47.96] क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ ३ ॥
[00:55.21] तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
[01:01.96] स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ४ ॥
[01:08.46] ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
[01:14.70] ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ५ ॥
[01:21.21] महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
[01:27.45] इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ६ ॥
[01:33.71] इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
[01:40.96] एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ७ ॥
[01:47.21] अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
[01:53.70] आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ८ ॥
[02:00.35] इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
[02:06.85] जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ९ ॥
[02:13.34] असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
[02:19.34] नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १० ॥
[02:25.59] मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
[02:31.85] विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ ११ ॥
[02:37.85] अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
[02:44.35] एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोஉन्यथा ॥ १२ ॥
[02:50.85] ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
[02:57.84] अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३ ॥
[03:04.10] सर्वतःपाणिपादं तत्सर्वतोஉक्षिशिरोमुखम् ।
[03:10.85] सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १४ ॥
[03:17.09] सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
[03:23.85] असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १५ ॥
[03:30.60] बहिरन्तश्च भूतानामचरं चरमेव च ।
[03:36.49] सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १६ ॥
[03:43.37] अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
[03:49.49] भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १७ ॥
[03:55.38] ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
[04:01.63] ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १८ ॥
[04:07.88] इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
[04:14.88] मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १९ ॥
[04:21.63] प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि ।
[04:27.63] विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ २० ॥
[04:34.13] कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
[04:39.88] पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २१ ॥
[04:46.13] पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
[04:52.38] कारणं गुणसङ्गोஉस्य सदसद्योनिजन्मसु ॥ २२ ॥
[04:58.88] उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
[05:05.63] परमात्मेति चाप्युक्तो देहेஉस्मिन्पुरुषः परः ॥ २३ ॥
[05:12.39] य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
[05:18.14] सर्वथा वर्तमानोஉपि न स भूयोஉभिजायते ॥ २४ ॥
[05:24.63] ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
[05:31.88] अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ २५ ॥
[05:38.38] अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
[05:46.13] तेஉपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ २६ ॥
[05:52.63] यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
[05:59.38] क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २७ ॥
[06:05.78] समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
[06:12.28] विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ २८ ॥
[06:18.28] समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
[06:24.29] न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ २९॥
[06:30.53] प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
[06:37.03] यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ ३० ॥
[06:43.53] यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
[06:50.04] तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३१॥
[06:56.28] अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
[07:03.28] शरीरस्थोஉपि कौन्तेय न करोति न लिप्यते ॥ ३२ ॥
[07:09.53] यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
[07:16.77] सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३३ ॥
[07:23.53] यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
[07:30.03] क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३४ ॥
[07:36.28] क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
[07:42.78] भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३५ ॥
[07:50.04] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
[07:58.53] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
[08:06.28] क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोஉध्यायः ॥ १३ ॥
[00:00.00] 8.15
