Lrc Player

gita-chapter-3

Unknown artist
[10:30.58]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:00.67] अथ तृतीयो‌உध्यायः ।

[00:06.32] अर्जुन उवाच ।

[00:10.07] ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।

[00:17.07] तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥

[00:23.81] व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।

[00:30.56] तदेकं वद निश्चित्य येन श्रेयो‌உहमाप्नुयाम् ॥ २ ॥

[00:37.56] श्रीभगवानुवाच ।

[00:42.07] लोके‌உस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।

[00:48.81] ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥

[00:55.56] न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषो‌உश्नुते ।

[01:02.31] न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥

[01:08.46] न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।

[01:14.45] कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥

[01:20.71] कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।

[01:27.21] इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥

[01:34.71] यस्त्विन्द्रियाणि मनसा नियम्यारभते‌உर्जुन ।

[01:40.96] कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥

[01:47.71] नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।

[01:54.46] शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ८ ॥

[02:00.96] यज्ञार्थात्कर्मणो‌உन्यत्र लोको‌உयं कर्मबन्धनः ।

[02:09.46] तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥

[02:16.46] सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।

[02:23.21] अनेन प्रसविष्यध्वमेष वो‌உस्त्विष्टकामधुक् ॥ १० ॥

[02:29.95] देवान्भावयतानेन ते देवा भावयन्तु वः ।

[02:36.95] परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥

[02:43.96] इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।

[02:51.34] तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥

[02:58.84] यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।

[03:05.60] भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥

[03:12.34] अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।

[03:19.10] यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥

[03:25.84] कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।

[03:32.34] तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥

[03:39.10] एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।

[03:45.59] अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥

[03:52.35] यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।

[03:59.09] आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥

[04:06.10] नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।

[04:12.84] न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥

[04:19.60] तस्मादसक्तः सततं कार्यं कर्म समाचर ।

[04:26.09] असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ १९ ॥

[04:32.34] कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।

[04:39.34] लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ २० ॥

[04:45.35] यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।

[04:51.84] स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥

[04:58.10] न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।

[05:05.34] नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥

[05:11.48] यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।

[05:17.72] मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥

[05:24.23] उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।

[05:31.23] सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥

[05:37.97] सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।

[05:44.97] कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ २५ ॥

[05:51.97] न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।

[05:58.23] जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥

[06:04.98] प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।

[06:11.22] अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ २७ ॥

[06:17.72] तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।

[06:23.73] गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥

[06:30.47] प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ।

[06:36.97] तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ २९ ॥

[06:42.98] मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।

[06:49.72] निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥

[06:56.48] ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।

[07:02.72] श्रद्धावन्तो‌உनसूयन्तो मुच्यन्ते ते‌உपि कर्मभिः ॥ ३१ ॥

[07:09.47] ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।

[07:16.73] सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२ ॥

[07:23.23] सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।

[07:29.97] प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥

[07:35.98] इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।

[07:42.98] तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥

[07:49.48] श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।

[07:56.48] स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥

[08:03.12] अर्जुन उवाच ।

[08:06.62] अथ केन प्रयुक्तो‌உयं पापं चरति पूरुषः ।

[08:13.12] अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३६ ॥

[08:19.62] श्रीभगवानुवाच ।

[08:24.12] काम एष क्रोध एष रजोगुणसमुद्भवः ।

[08:30.12] महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥

[08:36.62] धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।

[08:43.62] यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥

[08:50.62] आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।

[08:57.37] कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥

[09:04.37] इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।

[09:11.36] एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥

[09:18.36] तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।

[09:25.12] पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥

[09:32.12] इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।

[09:39.37] मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥

[09:45.87] एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।

[09:53.61] जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥

[10:01.26] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

[10:11.01] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

[10:19.90] कर्मयोगो नाम तृतीयो‌உध्यायः ॥३ ॥

[00:00.00] 10.30