gita-chapter-4
[00:00.87] अथ चतुर्थोஉध्यायः ।
[00:05.38] श्रीभगवानुवाच ।
[00:08.89] इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
[00:15.63] विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेஉब्रवीत् ॥ १ ॥
[00:22.63] एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
[00:29.88] स कालेनेह महता योगो नष्टः परन्तप ॥ २ ॥
[00:36.88] स एवायं मया तेஉद्य योगः प्रोक्तः पुरातनः ।
[00:44.38] भक्तोஉसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥
[00:52.13] अर्जुन उवाच ।
[00:55.64] अपरं भवतो जन्म परं जन्म विवस्वतः ।
[01:01.89] कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥
[01:09.13] श्रीभगवानुवाच ।
[01:13.38] बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
[01:19.38] तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥
[01:26.64] अजोஉपि सन्नव्ययात्मा भूतानामीश्वरोஉपि सन् ।
[01:33.88] प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ६ ॥
[01:40.88] यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
[01:47.63] अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥
[01:54.89] परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
[02:01.89] धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥
[02:09.54] जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
[02:17.04] त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोஉर्जुन ॥ ९ ॥
[02:23.78] वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
[02:30.79] बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥
[02:37.79] ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
[02:44.54] मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥
[02:51.19] काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
[02:58.44] क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥
[03:05.20] चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
[03:11.68] तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ १३ ॥
[03:18.44] न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
[03:25.19] इति मां योஉभिजानाति कर्मभिर्न स बध्यते ॥ १४ ॥
[03:31.95] एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
[03:39.19] कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥
[03:46.19] किं कर्म किमकर्मेति कवयोஉप्यत्र मोहिताः ।
[03:52.94] तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेஉशुभात् ॥ १६ ॥
[04:00.19] कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
[04:07.35] अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥
[04:14.09] कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
[04:20.35] स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
[04:27.10] यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
[04:34.34] ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥
[04:41.34] त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
[04:49.10] कर्मण्यभिप्रवृत्तोஉपि नैव किञ्चित्करोति सः ॥ २० ॥
[04:55.74] निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
[05:02.98] शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ २१ ॥
[05:10.48] यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
[05:18.24] समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ २२ ॥
[05:24.98] गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
[05:31.98] यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥
[05:39.48] ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
[05:46.49] ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
[05:53.23] दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
[05:59.73] ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥
[06:06.99] श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
[06:14.99] शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ २६ ॥
[06:21.73] सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
[06:28.74] आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ २७ ॥
[06:35.12] द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
[06:42.12] स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ २८ ॥
[06:49.38] अपाने जुह्वति प्राणं प्राणेஉपानं तथापरे ।
[06:56.63] प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥
[07:03.13] अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
[07:10.63] सर्वेஉप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ३० ॥
[07:17.37] यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
[07:23.63] नायं लोकोஉस्त्ययज्ञस्य कुतोஉन्यः कुरुसत्तम ॥ ३१ ॥
[07:30.88] एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
[07:37.13] कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥
[07:44.88] श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
[07:52.38] सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥
[07:59.63] तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
[08:05.88] उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥
[08:12.38] यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
[08:19.38] येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥
[08:26.88] अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
[08:33.63] सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥
[08:40.37] यथैधांसि समिद्धोஉग्निर्भस्मसात्कुरुतेஉर्जुन ।
[08:46.88] ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥
[08:53.63] न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
[08:59.88] तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥
[09:07.38] श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
[09:14.38] ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥
[09:21.53] अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
[09:28.53] नायं लोकोஉस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥
[09:35.28] योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ।
[09:42.28] आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥
[09:48.63] तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
[09:56.13] छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४२ ॥
[10:04.27] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
[10:14.27] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
[10:23.41] ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोஉध्यायः ॥ ४ ॥
[00:00.00] 10.33
