Lrc Player

gita-chapter-10

Unknown artist
[10:14.38]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:00.87] अथ दशमो‌உध्यायः ।

[00:05.62] श्रीभगवानुवाच ।

[00:09.76] भूय एव महाबाहो शृणु मे परमं वचः ।

[00:17.01] यत्ते‌உहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥

[00:24.01] न मे विदुः सुरगणाः प्रभवं न महर्षयः ।

[00:30.26] अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ २ ॥

[00:37.01] यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।

[00:43.76] असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥

[00:50.50] बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।

[00:58.00] सुखं दुःखं भवो‌உभावो भयं चाभयमेव च ॥ ४ ॥

[01:04.76] अहिंसा समता तुष्टिस्तपो दानं यशो‌உयशः ।

[01:11.76] भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५ ॥

[01:18.51] महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।

[01:25.26] मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ ६ ॥

[01:32.51] एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।

[01:39.51] सो‌உविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥

[01:46.76] अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।

[01:53.51] इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ८ ॥

[02:00.26] मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।

[02:07.26] कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥

[02:13.50] तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।

[02:20.01] ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥

[02:26.77] तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।

[02:33.51] नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥

[02:41.40] अर्जुन उवाच ।

[02:44.80] परं ब्रह्म परं धाम पवित्रं परमं भवान् ।

[02:51.55] पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥

[02:57.70] आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।

[03:04.94] असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १३ ॥

[03:11.44] सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।

[03:18.69] न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १४ ॥

[03:24.95] स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।

[03:31.69] भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥

[03:38.44] वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।

[03:45.69] याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥

[03:52.69] कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।

[03:59.19] केषु केषु च भावेषु चिन्त्यो‌உसि भगवन्मया ॥ १७ ॥

[04:05.70] विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।

[04:12.20] भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मे‌உमृतम् ॥ १८ ॥

[04:19.60] श्रीभगवानुवाच ।

[04:23.85] हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।

[04:30.61] प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥

[04:37.50] अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।

[04:44.50] अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥

[04:51.26] आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।

[04:58.26] मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥

[05:04.75] वेदानां सामवेदो‌உस्मि देवानामस्मि वासवः ।

[05:12.25] इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥

[05:19.25] रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।

[05:26.51] वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ २३ ॥

[05:33.51] पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।

[05:39.90] सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ २४ ॥

[05:46.65] महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।

[05:53.40] यज्ञानां जपयज्ञो‌உस्मि स्थावराणां हिमालयः ॥ २५ ॥

[06:00.90] अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।

[06:08.40] गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥

[06:16.16] उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।

[06:22.90] ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥

[06:29.41] आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।

[06:35.91] प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ २८ ॥

[06:42.90] अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।

[06:49.65] पितूणामर्यमा चास्मि यमः संयमतामहम् ॥ २९ ॥

[06:56.40] प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।

[07:03.40] मृगाणां च मृगेन्द्रो‌உहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥

[07:09.90] पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।

[07:16.15] झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥

[07:22.65] सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।

[07:29.65] अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ ३२ ॥

[07:36.15] अक्षराणामकारो‌உस्मि द्वन्द्वः सामासिकस्य च ।

[07:43.15] अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ ३३ ॥

[07:50.04] मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।

[07:56.94] कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ ३४॥

[08:04.19] बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।

[08:10.94] मासानां मार्गशीर्षो‌உहमृतूनां कुसुमाकरः ॥ ३५ ॥

[08:17.94] द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।

[08:24.69] जयो‌உस्मि व्यवसायो‌உस्मि सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥

[08:31.07] वृष्णीनां वासुदेवो‌உस्मि पाण्डवानां धनञ्जयः ।

[08:38.57] मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ३७ ॥

[08:45.07] दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।

[08:51.57] मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥

[08:58.32] यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।

[09:04.72] न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥

[09:10.97] नान्तो‌உस्ति मम दिव्यानां विभूतीनां परन्तप ।

[09:17.72] एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥

[09:24.47] यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।

[09:30.97] तत्तदेवावगच्छ त्वं मम तेजों‌உशसम्भवम् ॥ ४१ ॥

[09:37.47] अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।

[09:43.97] विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥

[09:50.97] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

[09:59.22] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

[10:06.22] विभूतियोगो नाम दशमो‌உध्यायः ॥ १० ॥

[00:00.00] 10.14