gita-chapter-6
[00:00.91] अथ षष्ठोஉध्यायः ।
[00:05.16] श्रीभगवानुवाच ।
[00:09.66] अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
[00:17.41] स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ १ ॥
[00:25.41] यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
[00:32.91] न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ २ ॥
[00:39.91] आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
[00:47.41] योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३ ॥
[00:54.40] यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
[01:01.29] सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ ४ ॥
[01:08.79] उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
[01:15.79] आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५ ॥
[01:23.54] बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
[01:31.29] अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥
[01:38.79] जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
[01:46.78] शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ७ ॥
[01:53.54] ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
[02:01.19] युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ८ ॥
[02:08.19] सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
[02:15.43] साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥
[02:22.19] योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
[02:28.83] एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ १० ॥
[02:36.08] शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
[02:42.84] नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥
[02:49.84] तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियाः ।
[02:56.83] उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥
[03:03.08] समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
[03:09.83] सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥
[03:16.33] प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
[03:23.58] मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ १४ ॥
[03:30.59] युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
[03:37.83] शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५ ॥
[03:44.58] नात्यश्नतस्तु योगोஉस्ति न चैकान्तमनश्नतः ।
[03:51.58] न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥
[03:58.58] युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
[04:06.08] युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १७ ॥
[04:12.33] यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
[04:19.08] निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥
[04:25.58] यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
[04:32.33] योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ १९ ॥
[04:39.47] यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
[04:45.97] यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥
[04:52.97] सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।
[04:59.22] वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ २१ ॥
[05:05.72] यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
[05:12.96] यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ २२ ॥
[05:19.72] तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् ।
[05:26.36] स निश्चयेन योक्तव्यो योगोஉनिर्विण्णचेतसा ॥ २३ ॥
[05:33.36] सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
[05:40.61] मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥
[05:47.74] शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ।
[05:54.25] आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ २५ ॥
[06:00.24] यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
[06:06.24] ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥
[06:12.99] प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
[06:19.24] उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥
[06:25.49] युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
[06:32.75] सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥
[06:39.25] सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
[06:45.99] ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ २९ ॥
[06:52.49] यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
[06:59.24] तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥
[07:05.74] सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
[07:12.50] सर्वथा वर्तमानोஉपि स योगी मयि वर्तते ॥ ३१ ॥
[07:19.25] आत्मौपम्येन सर्वत्र समं पश्यति योஉर्जुन ।
[07:25.99] सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३२ ॥
[07:33.64] अर्जुन उवाच ।
[07:37.04] योஉयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
[07:44.78] एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥
[07:52.04] चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
[07:58.54] तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥
[08:05.94] श्रीभगवानुवाच ।
[08:09.45] असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
[08:16.45] अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥
[08:22.94] असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
[08:29.44] वश्यात्मना तु यतता शक्योஉवाप्तुमुपायतः ॥ ३६॥
[08:37.19] अर्जुन उवाच ।
[08:40.69] अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
[08:47.69] अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ३७ ॥
[08:54.45] कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
[09:01.19] अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ३८ ॥
[09:07.69] एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
[09:14.58] त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ ३९ ॥
[09:21.98] श्रीभगवानुवाच ।
[09:25.89] पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
[09:32.89] न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ ४०॥
[09:39.39] प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
[09:46.64] शुचीनां श्रीमतां गेहे योगभ्रष्टोஉभिजायते ॥ ४१ ॥
[09:53.88] अथवा योगिनामेव कुले भवति धीमताम् ।
[10:00.64] एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥
[10:07.14] तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
[10:13.63] यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ॥
[10:20.63] पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोஉपि सः ।
[10:27.89] जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥
[10:35.13] प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
[10:42.14] अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥
[10:48.63] तपस्विभ्योஉधिको योगी ज्ञानिभ्योஉपि मतोஉधिकः ।
[10:56.03] कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६ ॥
[11:03.79] योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
[11:10.79] श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ४७ ॥
[11:21.42] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
[11:30.68] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
[11:39.93] आत्मसंयमयोगो नाम षष्ठोஉध्यायः ॥ ६ ॥
[00:00.00] 11.49
