gita-chapter-11
[00:01.03] अथ एकादशोஉध्यायः ।
[00:05.54] अर्जुन उवाच ।
[00:09.03] मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् ।
[00:15.79] यत्त्वयोक्तं वचस्तेन मोहोஉयं विगतो मम ॥ १ ॥
[00:23.45] भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
[00:30.44] त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥
[00:37.44] एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
[00:44.19] द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥
[00:50.95] मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
[00:57.59] योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥
[01:04.97] श्रीभगवानुवाच ।
[01:09.48] पश्य मे पार्थ रूपाणि शतशोஉथ सहस्रशः ।
[01:16.23] नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥
[01:23.12] पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
[01:30.12] बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ६ ॥
[01:37.12] इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
[01:44.38] मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ ७ ॥
[01:51.03] न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
[01:58.27] दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥
[02:05.77] सञ्जय उवाच ।
[02:09.66] एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
[02:16.90] दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
[02:22.91] अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
[02:28.91] अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥
[02:35.65] दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
[02:41.91] सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥
[02:48.66] दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
[02:55.40] यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ १२ ॥
[03:02.16] तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
[03:08.41] अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥
[03:15.16] ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
[03:21.66] प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥
[03:28.06] अर्जुन उवाच ।
[03:31.20] पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।
[03:39.84] ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥
[03:48.59] अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोஉनन्तरूपम् ।
[03:56.84] नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥
[04:04.84] किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् ।
[04:13.34] पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥
[04:21.85] त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।
[04:29.35] त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥
[04:37.59] अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।
[04:45.84] पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥
[04:53.58] द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
[05:02.34] दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥
[05:11.34] अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
[05:19.23] स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥
[05:27.63] रुद्रादित्या वसवो ये च साध्या विश्वेஉश्विनौ मरुतश्चोष्मपाश्च ।
[05:37.13] गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥
[05:46.88] रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।
[05:55.38] बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ २३ ॥
[06:04.12] नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
[06:12.38] दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥
[06:20.88] दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि ।
[06:29.37] दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ २५ ॥
[06:37.13] अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।
[06:45.63] भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥
[06:54.12] वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
[07:01.63] केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ २७ ॥
[07:10.38] यथा नदीनां बहवोஉम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।
[07:18.62] तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥
[07:26.38] यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।
[07:34.38] तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥
[07:41.88] लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
[07:50.63] तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ३० ॥
[07:59.13] आख्याहि मे को भवानुग्ररूपो नमोஉस्तु ते देववर प्रसीद ।
[08:07.37] विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥
[08:15.87] श्रीभगवानुवाच ।
[08:19.01] कालोஉस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः ।
[08:27.65] ऋतेஉपि त्वां न भविष्यन्ति सर्वे येஉवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥
[08:36.29] तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् ।
[08:44.79] मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥
[08:53.29] द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् ।
[09:01.29] मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥
[09:09.54] सञ्जय उवाच ।
[09:13.29] एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
[09:21.79] नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥
[09:30.79] अर्जुन उवाच ।
[09:34.30] स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।
[09:42.04] रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ३६ ॥
[09:50.29] कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोஉप्यादिकर्त्रे ।
[09:59.04] अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥
[10:06.94] त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् ।
[10:15.44] वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥
[10:23.69] वायुर्यमोஉग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च ।
[10:32.19] नमो नमस्तेஉस्तु सहस्रकृत्वः पुनश्च भूयोஉपि नमो नमस्ते ॥ ३९ ॥
[10:40.19] नमः पुरस्तादथ पृष्ठतस्ते नमोஉस्तु ते सर्वत एव सर्व ।
[10:48.19] अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोஉसि सर्वः ॥ ४० ॥
[10:56.44] सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।
[11:04.69] अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥
[11:12.94] यच्चावहासार्थमसत्कृतोஉसि विहारशय्यासनभोजनेषु ।
[11:21.19] एकोஉथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥
[11:29.44] पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
[11:36.94] न त्वत्समोஉस्त्यभ्यधिकः कुतोஉन्यो लोकत्रयेஉप्यप्रतिमप्रभाव ॥ ४३ ॥
[11:45.19] तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।
[11:53.44] पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ ४४ ॥
[12:01.69] अदृष्टपूर्वं हृषितोஉस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।
[12:09.45] तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास ॥ ४५ ॥
[12:17.45] किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।
[12:25.45] तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥
[12:34.19] श्रीभगवानुवाच ।
[12:38.19] मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।
[12:46.59] तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥
[12:54.99] न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।
[13:03.23] एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥
[13:11.48] मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
[13:19.63] व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥
[13:28.63] सञ्जय उवाच ।
[13:31.63] इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।
[13:40.38] आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥
[13:49.38] अर्जुन उवाच ।
[13:53.12] दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
[14:00.13] इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५१ ॥
[14:07.13] श्रीभगवानुवाच ।
[14:10.38] सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
[14:16.88] देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥
[14:24.26] नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
[14:30.26] शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५३ ॥
[14:36.65] भक्त्या त्वनन्यया शक्य अहमेवंविधोஉर्जुन ।
[14:43.53] ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५४ ॥
[14:50.03] मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
[14:56.79] निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ५५ ॥
[15:04.28] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
[15:12.52] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
[15:20.41] विश्वरूपदर्शनयोगो नामैकादशोஉध्यायः ॥ ११ ॥
[00:00.00] 15.30
