gita-chapter-12
[00:00.00] अथ द्वादशोஉध्यायः ।
[00:18.56] अर्जुन उवाच ।
[00:21.06] एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
[00:32.70] ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥
[00:45.05] music
[01:01.21] श्रीभगवानुवाच ।
[01:04.71] मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
[01:17.70] श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥
[01:31.70] music
[01:51.21] ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
[02:04.96] सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥
[02:18.45] संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
[02:31.70] ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ ४ ॥
[02:46.70] music
[03:11.95] क्लेशोஉधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
[03:26.20] अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ ५ ॥
[03:39.20] music
[03:53.11] ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
[04:03.10] अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥
[04:13.86] तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
[04:24.11] भवामिन चिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥
[04:34.85] music
[04:57.35] मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
[05:10.35] निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ ८ ॥
[05:23.60] music
[05:39.60] अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
[05:52.86] अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ ९ ॥
[06:05.85] music
[06:22.36] अभ्यासेஉप्यसमर्थोஉसि मत्कर्मपरमो भव ।
[06:35.11] मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥
[06:48.52] music
[07:05.02] अथैतदप्यशक्तोஉसि कर्तुं मद्योगमाश्रितः ।
[07:18.78] सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥
[07:31.03] music
[07:41.42] श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
[07:54.18] ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
[08:07.67] music
[08:26.93] अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
[08:40.18] निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १३ ॥
[08:52.92] सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
[09:05.92] मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १४ ॥
[09:19.83] music
[09:45.08] यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
[09:58.67] हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥
[10:10.82] music
[10:31.17] अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
[10:44.07] सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १६ ॥
[10:57.32] music
[11:13.82] यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
[11:27.07] शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १७ ॥
[11:39.81] music
[11:53.06] समः शत्रौ च मित्रे च तथा मानापमानयोः ।
[12:06.33] शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥
[12:18.57] तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
[12:31.65] अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १९ ॥
[12:44.89] music
[13:10.64] ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
[13:24.55] श्रद्दधाना मत्परमा भक्तास्तेஉतीव मे प्रियाः ॥ २० ॥
[13:36.80] music
[13:46.80] ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
[13:52.96] ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
[14:01.36] भक्तियोगो नाम द्वादशोஉध्यायः ॥ १२ ॥
[00:00.00] 14.11
