Ram raksha stotram
[00:15.75] विनियोग –
[00:19.00] अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः,
[00:22.75] श्री सीतारामचंद्रो देवता,
[00:28.50] अनुष्टुप छंदः, सीता शक्तिः,
[00:32.75] श्रीमान हनुमान कीलकम,
[00:37.00] श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।
[00:43.75] अथ ध्यानम् –
[00:46.75] ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,
[00:56.75] पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम,
[01:07.75] वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,
[01:16.75] रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ।
[01:27.25] राम रक्षा स्तोत्र –
[01:31.00] चरितं रघुनाथस्य शतकोटि प्रविस्तरम्,
[01:37.24] एकैकमक्षरं पुंसां महापातकनाशनम् । 1 ।
[01:47.25] ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्,
[01:59.77] जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं । 2 ।
[02:08.75] सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्,
[02:19.51] स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् । 3 ।
[02:29.49] रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम्,
[02:41.01] शिरो मे राघवः पातु भालं दशरथात्मजः । 4 ।
[02:50.51] कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति,
[03:02.00] घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः । 5 ।
[03:09.99] जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः,
[03:17.99] स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः । 6 ।
[03:31.50] करौ सीतापतिः पातु हृदयं जामदग्न्यजित,
[03:38.00] मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः । 7 ।
[03:45.74] सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः,
[03:55.75] उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः । 8 ।
[04:04.25] जानुनी सेतुकृत पातु जंघे दशमुखांतकः,
[04:13.00] पादौ विभीषणश्रीदः पातु रामअखिलं वपुः । 9 ।
[04:22.25] एतां रामबलोपेतां रक्षां यः सुकृति पठेत,
[04:35.00] स चिरायुः सुखी पुत्री विजयी विनयी भवेत् । 10 ।
[04:42.99] पातालभूतल व्योम चारिणश्छद्मचारिणः,
[04:53.50] न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः । 11 ।
[05:02.50] रामेति रामभद्रेति रामचंद्रेति वा स्मरन,
[05:12.49] नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति । 12 ।
[05:22.00] जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्,
[05:35.00] यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः । 13 ।
[05:53.00] वज्रपञ्जरनामेदं यो रामकवचं स्मरेत,
[06:00.99] अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् । 14 ।
[06:11.24] आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः,
[06:20.00] तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः । 15 ।
[06:26.75] आरामः कल्पवृक्षाणां विरामः सकलापदाम्,
[06:48.25] अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः । 16 ।
[07:00.25] तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ,
[07:12.25] पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ । 17 ।
[07:18.25] फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ,
[07:36.25] पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ । 18 ।
[07:46.25] शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्,
[07:56.50] रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ । 19 ।
[08:05.00] आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ,
[08:22.00] रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम । 20 ।
[08:31.50] सन्नद्धः कवची खड्गी चापबाणधरो युवा,
[08:41.75] गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः । 21 ।
[08:51.50] रामो दाशरथी शूरो लक्ष्मणानुचरो बली,
[09:04.75] काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः । 22 ।
[09:15.00] वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः,
[09:25.50] जानकीवल्लभः श्रीमानप्रमेयपराक्रमः । 23 ।
[09:40.99] इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः,
[09:47.00] अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः । 24 ।
[09:57.02] रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम,
[10:10.76] स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः । 25 ।
[10:22.51] रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
[10:43.74] काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम,
[10:58.00] राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,
[11:15.00] वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम । 26 ।
[11:29.51] रामाय रामभद्राय रामचंद्राय वेधसे,
[11:42.75] रघुनाथाय नाथाय सीतायाः पतये नमः । 27 ।
[11:53.00] श्रीराम राम रघुनन्दनराम राम,
[12:01.00] श्रीराम राम भरताग्रज राम राम,
[12:06.74] श्रीराम राम रणकर्कश राम राम,
[12:14.75] श्रीराम राम शरणं भव राम राम । 28 ।
[12:21.50] श्रीराम चन्द्रचरणौ मनसा स्मरामि,
[12:27.99] श्रीराम चंद्रचरणौ वचसा गृणामि,
[12:33.50] श्रीराम चन्द्रचरणौ शिरसा नमामि,
[12:40.74] श्रीराम चन्द्रचरणौ शरणं प्रपद्ये । 29 ।
[12:50.99] माता रामो मत्पिता रामचन्द्रः स्वामी,
[12:56.00] रामो मत्सखा रामचन्द्रः,
[13:07.01] सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं,
[13:07.75] जाने नैव जाने न जाने । 30 ।
[13:13.24] दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज,
[13:24.00] पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् । 31 ।
[13:33.87] लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं,
[13:49.12] कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये । 32 ।
[14:01.38] मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम,
[14:15.39] वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये । 33 ।
[14:25.37] कूजन्तं रामरामेति मधुरं मधुराक्षरम,
[14:39.87] आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम । 34 ।
[14:52.99] आपदामपहर्तारं दातारं सर्वसम्पदाम्,
[15:04.49] लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् । 35 ।
[15:15.40] भर्जनं भवबीजानामर्जनं सुखसम्पदाम्,
[15:27.27] तर्जनं यमदूतानां रामरामेति गर्जनम् । 36 ।
[15:39.02] रामो राजमणिः सदा विजयते,
[15:45.78] रामं रमेशं भजे रामेणाभिहता,
[15:52.65] निशाचरचमू रामाय तस्मै नमः,
[16:00.65] रामान्नास्ति परायणं परतरं,
[16:05.65] रामस्य दासोस्म्यहं रामे चित्तलयः,
[16:12.52] सदा भवतु मे भो राम मामुद्धराः । 37 ।
[16:20.64] राम रामेति रामेति रमे रामे मनोरमे,
[16:29.39] सहस्त्रनाम तत्तुल्यं रामनाम वरानने । 38 ।
