Namaste Sada vatsale
[00:19.87] नमस्ते सदा वत्सले मातृभूमे
[00:39.81] त्वया हिन्दुभूमे सुखं वर्धितोहम् ।
[00:40.87] महामङ्गले पुण्यभूमे त्वदर्थे
[00:41.40] पतत्वेष कायो नमस्ते नमस्ते ।।१।।
[00:42.21] प्रभो शक्तिमन् हिन्दुराष्ट्राङ्गभूता
[00:42.48] इमे सादरं त्वां नमामो वयम्
[00:43.84] त्वदीयाय कार्याय बध्दा कटीयं
[00:44.63] शुभामाशिषं देहि तत्पूर्तये ।
[00:45.43] अजय्यां च विश्वस्य देहीश शक्तिं
[00:46.51] सुशीलं जगद्येन नम्रं भवेत्
[00:47.32] श्रुतं चैव यत्कण्टकाकीर्ण मार्गं
[00:47.85] स्वयं स्वीकृतं नः सुगं कारयेत् ।।२।।
[00:50.78] समुत्कर्षनिःश्रेयस्यैकमुग्रं
[00:52.66] परं साधनं नाम वीरव्रतम्
[00:54.79] तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा
[00:55.59] हृदन्तः प्रजागर्तु तीव्रानिशम् ।
[00:56.12] विजेत्री च नः संहता कार्यशक्तिर्
[00:56.65] विधायास्य धर्मस्य संरक्षणम् ।
[00:57.18] परं वैभवं नेतुमेतत् स्वराष्ट्रं
[00:57.98] समर्था भवत्वाशिषा ते भृशम् ।।३।।
[01:01.70] भारत माता की जय
