Aadram_maduram_hasitam_maduram_madu_(getmp3.pro)
[00:21.36] अधरं मधुरं वदनं मधुरं
[00:26.68] नयनं मधुरं हसितं मधुरम् ।
[00:32.29] हृदयं मधुरं गमनं मधुरं
[00:37.35] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[00:58.89] वचनं मधुरं चरितं मधुरं
[01:04.50] वसनं मधुरं वलितं मधुरम् ।
[01:09.79] चलितं मधुरं भ्रमितं मधुरं
[01:15.13] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[01:36.41] वेणुर्मधुरो रेणुर्मधुरः
[01:42.27] पाणिर्मधुरः पादौ मधुरौ ।
[01:47.31] नृत्यं मधुरं सख्यं मधुरं
[01:52.65] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[02:14.18] गीतं मधुरं पीतं मधुरं
[02:19.76] भुक्तं मधुरं सुप्तं मधुरम् ।
[02:25.33] रूपं मधुरं तिलकं मधुरं
[02:30.37] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[02:52.20] करणं मधुरं तरणं मधुरं
[02:57.51] हरणं मधुरं रमणं मधुरम् ।
[03:03.08] वमितं मधुरं शमितं मधुरं
[03:08.12] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[03:29.99] गुञ्जा मधुरा माला मधुरा
[03:35.29] यमुना मधुरा वीची मधुरा ।
[03:40.60] सलिलं मधुरं कमलं मधुरं
[03:45.91] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[04:07.41] गोपी मधुरा लीला मधुरा
[04:13.29] युक्तं मधुरं मुक्तं मधुरम् ।
[04:18.34] दृष्टं मधुरं शिष्टं मधुरं
[04:23.40] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[04:44.97] गोपा मधुरा गावो मधुरा
[04:50.78] यष्टिर्मधुरा सृष्टिर्मधुरा ।
[04:56.13] दलितं मधुरं फलितं मधुरं
[05:01.19] मधुराधिपतेरखिलं मधुरम् ॥
[05:12.13] अधरं मधुरं वदनं मधुरं
[05:17.45] नयनं मधुरं हसितं मधुरम् ।
[05:24.15] हृदयं मधुरं गमनं मधुरं
[05:28.17] मधुराधिपतेरखिलं मधुरम् ॥ ॥
