Lrc Player

yt1s.com - Madhurashtakam Adharam Madhuram Radha Krishna Lofi Spiritual slowed and reverb bhajan

Unknown artist
[05:45.68]·Synced by Guest·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:05.59] अधरं मधुरं वदनं मधुरं

[00:25.85] नयनं मधुरं हसितं मधुरम् ।

[00:31.17] हृदयं मधुरं गमनं मधुरं

[00:37.03] मधुराधिपतेरखिलं मधुरम् ॥ ॥

[00:47.65] वचनं मधुरं चरितं मधुरं

[01:03.32] वसनं मधुरं वलितं मधुरम् ।

[01:09.43] चलितं मधुरं भ्रमितं मधुरं

[01:14.21] मधुराधिपतेरखिलं मधुरम् ॥ ॥

[01:25.37] वेणुर्मधुरो रेणुर्मधुरः

[01:41.31] पाणिर्मधुरः पादौ मधुरौ ।

[01:46.62] नृत्यं मधुरं सख्यं मधुरं

[01:51.93] मधुराधिपतेरखिलं मधुरम् ॥ ॥

[02:03.36] गीतं मधुरं पीतं मधुरं

[02:17.44] भुक्तं मधुरं सुप्तं मधुरम् ।

[02:24.34] रूपं मधुरं तिलकं मधुरं

[02:30.22] मधुराधिपतेरखिलं मधुरम् ॥ ॥

[02:40.84] करणं मधुरं तरणं मधुरं

[02:56.51] हरणं मधुरं रमणं मधुरम् ।

[03:02.90] वमितं मधुरं शमितं मधुरं

[03:07.67] मधुराधिपतेरखिलं मधुरम् ॥ ॥

[03:20.69] गुञ्जा मधुरा माला मधुरा

[03:34.50] यमुना मधुरा वीची मधुरा ।

[03:39.81] सलिलं मधुरं कमलं मधुरं

[03:45.12] मधुराधिपतेरखिलं मधुरम् ॥ ॥

[03:57.87] गोपी मधुरा लीला मधुरा

[04:11.97] युक्तं मधुरं मुक्तं मधुरम् ।

[04:17.28] दृष्टं मधुरं शिष्टं मधुरं

[04:22.86] मधुराधिपतेरखिलं मधुरम् ॥ ॥

[04:43.57] गोपा मधुरा गावो मधुरा

[04:50.22] यष्टिर्मधुरा सृष्टिर्मधुरा ।

[04:55.27] दलितं मधुरं फलितं मधुरं

[05:00.58] मधुराधिपतेरखिलं मधुरम् ॥ ॥