madhurashtkam
[00:26.35] अधरं मधुरं वदनं मधुरं
[00:32.34] नयनं मधुरं हसितं मधुरम् ।
[00:38.69] हृदयं मधुरं गमनं मधुरं
[00:45.22] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[00:50.92] वचनं मधुरं चरितं मधुरं
[00:56.97] वसनं मधुरं वलितं मधुरम् ।
[01:02.97] चलितं मधुरं भ्रमितं मधुरं
[01:08.97] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[01:14.72] वेणुर्मधुरो रेणुर्मधुरः
[01:20.97] पाणिर्मधुरः पादौ मधुरौ ।
[01:27.22] नृत्यं मधुरं सख्यं मधुरं
[01:33.47] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[02:02.97] गीतं मधुरं पीतं मधुरं
[02:08.97] भुक्तं मधुरं सुप्तं मधुरम् ।
[02:14.97] रूपं मधुरं तिलकं मधुरं
[02:20.97] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[02:27.22] करणं मधुरं तरणं मधुरं
[02:32.97] हरणं मधुरं रमणं मधुरम् ।
[02:39.00] वमितं मधुरं शमितं मधुरं
[02:45.09] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[02:50.94] गुञ्जा मधुरा माला मधुरा
[02:56.95] यमुना मधुरा वीची मधुरा ।
[03:03.22] सलिलं मधुरं कमलं मधुरं
[03:09.09] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[03:33.59] गोपी मधुरा लीला मधुरा
[03:39.34] युक्तं मधुरं मुक्तं मधुरम् ।
[03:45.22] दृष्टं मधुरं शिष्टं मधुरं
[03:51.20] मधुराधिपतेरखिलं मधुरम् ॥ ॥
[03:57.47] गोपा मधुरा गावो मधुरा
[04:03.26] यष्टिर्मधुरा सृष्टिर्मधुरा ।
[04:09.09] दलितं मधुरं फलितं मधुरं
