Runhara Stotram
[00:09.43] ॐ सिन्दूरवर्णं द्विभुजं गणेशं
[00:15.96] लम्बोदरं पद्मदले निविष्टम्।
[00:25.26] ब्रह्मादिदेवैः परिसेव्यमानं
[00:33.23] सिद्धैर्युतं तं प्रणमामि देवम् ।।
[00:50.76] सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फलसिद्धये।
[00:56.60] सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे ।।
[01:06.96] त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चितः।
[01:13.09] सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे ।।
[01:23.18] हिरण्यकश्यप्वादीनां वधार्थे विष्णुनार्चितः।
[01:29.29] सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे ।।
[01:39.12] महिषस्य वधे देव्या गणनाथः प्रपूजितः ।
[01:45.50] सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे ।।
[01:54.79] तारकस्य वधात्पूर्व कुमारेण प्रपूजितः।
[02:01.17] सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे ।।
[02:10.99] भास्करेण गणेशो हि पूजितश्छविसिद्धये।
[02:17.11] सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे ।।
[02:26.93] शशिना कान्तिवृद्धयर्थं पूजितो गणनायकः।
[02:33.06] सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे ।।
[02:42.89] पालनाय च तपसां विश्वामित्रेण पूजितः।
[02:49.26] सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे ।।
[02:58.83] इदम् ऋणहरस्तोत्रं तीव्रदारिद्र्यनाशनम्।
[03:05.46] एकवारं पठेन्नित्यं वर्षमेकं समाहितः।
[03:11.57] दारिद्र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत् ।।
[03:24.59] ॐ गणेश ऋणं छिन्धि वरेण्यं हुं नमः फट् ।
