Vishnu Sahasranama Stotra - Free Download, Borrow, and Streaming - Internet Archive_2
[00:01.87] ॐ श्री परमात्मने नमः ।
[00:05.01] यस्य स्मरणमात्रेन जन्मसंसारबन्धनात् ।
[00:10.34] विमुच्यते नमस्तमै विष्णवे प्रभविष्णवे ॥
[00:16.83] नमः समस्तभूतानां आदिभूताय भूभृते ।
[00:18.54] अनेकरुपरुपाय विष्णवे प्रभविष्णवे ॥
[00:22.69] वैशम्पायन उवाच
[00:25.21] श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
[00:30.29] युधिष्टिरः शान्तनवं पुनरेवाभ्यभाषत ।१।
[00:35.38] युधिष्टिर उवाच
[00:38.22] किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
[00:42.49] स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ।२।
[00:48.37] को धर्मः सर्वधर्माणां भवतः परमो मतः ।
[00:53.71] किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ।३।
[01:00.17] भीष्म उवाच
[01:02.73] जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
[01:07.83] स्तुवन्नामसहस्त्रेण पुरुषः सततोत्थितः ।४।
[01:13.51] तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
[01:18.91] ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ।५।
[01:24.89] अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
[01:29.97] लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ।६।
[01:35.37] ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
[01:42.76] लोकनाथं महद्भूतं सर्वभूतभवोद्भभवम् ।७।
[01:48.70] एष मे सर्वधर्माणां धर्माऽधिकतमो मतः ।
[01:54.67] यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ।८।
[02:00.92] परमं यो महत्तेजः परमं यो महत्तपः ।
[02:06.60] परमं यो महद्ब्रह्म परमं यः परायण्म् ।९।
[02:11.73] पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
[02:17.41] दैवतं देवतानां च भूतानां योऽव्ययः पिता ।१०।
[02:23.95] यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
[02:29.65] यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ।११।
[02:35.58] तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
[02:41.55] विष्णोर्नामसहस्त्रं मे श्रॄणु पापभयापहम् ।१२।
[02:47.53] यानि नामानि गौणानि विख्यातानि महात्मनः ।
[02:53.75] ॠषिभिः परिगीतानि तानि वक्ष्यामि भूतये ।१३।
[02:59.12] ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
[03:07.05] भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ।१४।
[03:14.98] पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
[03:22.66] अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ।१५।
[03:28.92] योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
[03:34.89] नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ।१६।
[03:41.67] सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
[03:49.63] सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ।१७।
[03:56.13] स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
[04:03.81] अनादिनिधनो धाता विधाता धातुरुत्तमः ।१८।
[04:09.21] अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
[04:15.43] विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।१९।
[04:21.94] अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
[04:28.64] प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ।२०।
[04:34.58] ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
[04:41.69] हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ।२१।
[04:47.67] ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
[04:53.94] अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ।२२।
[05:00.47] सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
[05:06.45] अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।२३।
[05:12.71] अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युत ।
[05:18.94] वृषाकपरिमेयत्मा सर्वयोगविनिःसृतः ।२४।
[05:24.57] वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः ।
[05:30.24] अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।२५।
