Lrc Player
sri rudram laghunyasam
Unknown artist
[02:05.53]·Synced by Guest·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.
[00:11.02] प्रजनने ब्रह्मा तिष्ठतु । पादयोर्-विष्णुस्तिष्ठतु । हस्तयोर्-हरस्तिष्ठतु । बाह्वोरिन्द्रस्तिष्टतु । जठरेஉअग्निस्तिष्ठतु । हृद॑ये शिवस्तिष्ठतु । कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु । नासिकयोर्-वायुस्तिष्ठतु । नयनयोश्-चन्द्रादित्यौ तिष्टेताम् । कर्णयोरश्विनौ तिष्टेताम् । ललाटे रुद्रास्तिष्ठन्तु । मूर्थ्न्यादित्यास्तिष्ठन्तु । शिरसि महादेवस्तिष्ठतु । शिखायां वामदेवास्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु । पुरतः शूली तिष्ठतु । पार्श्ययोः शिवाशङ्करौ तिष्ठेताम् । सर्वतो वायुस्तिष्ठतु । ततो बहिः सर्वतोஉग्निर्-ज्वालामाला-परिवृतस्तिष्ठतु । सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु । माग्ं रक्षन्तु
