Maha_Geeta_(01-20) पहला प्रकरण
[00:05.66] अष्टावक्रगीता
[00:06.16] ॥ श्री ॥ अथ श्रीमदष्टावक्रगीता प्रारभ्यते ॥
[00:06.42] १
[00:06.66] जनक उवाच ॥
[00:09.41] कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति ।
[00:15.18] वैराग्यं च कथं प्राप्तमेतद् ब्रूहि मम प्रभो ॥ १-१॥
[00:31.92] अष्टावक्र उवाच ॥
[00:35.67] मुक्तिमिच्छसि चेत्तात विषयान् विषवत्त्यज ।
[00:44.91] क्षमार्जवदयातोषसत्यं पीयूषवद् भज ॥ १-२॥
[00:55.18] न पृथ्वी न जलं नाग्निर्न वायुर्द्यौर्न वा भवान् ।
[01:05.67] एषां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये ॥ १-३॥
[01:16.65] यदि देहं पृथक् कृत्य चिति विश्राम्य तिष्ठसि ।
[01:26.18] अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि ॥ १-४॥
[00:00.00] न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः ।
[00:00.00] असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव ॥ १-५॥
[00:00.00] धर्माधर्मौ सुखं दुःखं मानसानि न ते विभो ।
[00:00.00] न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा ॥ १-६॥
[00:00.00] एको द्रष्टासि सर्वस्य मुक्तप्रायोऽसि सर्वदा ।
[00:00.00] अयमेव हि ते बन्धो द्रष्टारं पश्यसीतरम् ॥ १-७॥
[00:00.00] अहं कर्तेत्यहंमानमहाकृष्णाहिदंशितः ।
[00:00.00] नाहं कर्तेति विश्वासामृतं पीत्वा सुखी भव ॥ १-८॥
[00:00.00] एको विशुद्धबोधोऽहमिति निश्चयवह्निना ।
[00:00.00] प्रज्वाल्याज्ञानगहनं वीतशोकः सुखी भव ॥ १-९॥
[00:00.00] यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत् ।
[00:00.00] आनन्दपरमानन्दः स बोधस्त्वं सुखं भव ॥ १-१०॥
[00:00.00] मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि ।
[00:00.00] किंवदन्तीह सत्येयं या मतिः सा गतिर्भवेत् ॥ १-११॥
[00:00.00] आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः ।
[00:00.00] असङ्गो निःस्पृहः शान्तो भ्रमात्संसारवानिव ॥ १-१२॥
[00:00.00] कूटस्थं बोधमद्वैतमात्मानं परिभावय ।
[00:00.00] आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथान्तरम् ॥ १-१३॥
[00:00.00] देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक ।
[00:00.00] बोधोऽहं ज्ञानखड्गेन तन्निकृत्य सुखी भव ॥ १-१४॥
[00:00.00] निःसङ्गो निष्क्रियोऽसि त्वं स्वप्रकाशो निरञ्जनः ।
[00:00.00] अयमेव हि ते बन्धः समाधिमनुतिष्ठति ॥ १-१५॥
[00:00.00] त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः ।
[00:00.00] शुद्धबुद्धस्वरूपस्त्वं मा गमः क्षुद्रचित्तताम् ॥ १-१६॥
[00:00.00] निरपेक्षो निर्विकारो निर्भरः शीतलाशयः ।
[00:00.00] अगाधबुद्धिरक्षुब्धो भव चिन्मात्रवासनः ॥ १-१७॥
[00:00.00] साकारमनृतं विद्धि निराकारं तु निश्चलम् ।
[00:00.00] एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः ॥ १-१८॥
[00:00.00] यथैवादर्शमध्यस्थे रूपेऽन्तः परितस्तु सः ।
[00:00.00] तथैवाऽस्मिन् शरीरेऽन्तः परितः परमेश्वरः ॥ १-१९॥
[00:00.00] एकं सर्वगतं व्योम बहिरन्तर्यथा घटे ।
[00:00.00] नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा ॥ १-२०॥
