Atharvashirsha
[00:05.63] ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
[00:09.12] भद्रं पश्येमाक्षभिर्यजत्राः ।
[00:14.36] स्थिरैरङ्गैस्तुष्टुवाग्ँसस्तनूभिः ।
[00:20.37] व्यशेम देवहितं यदायूः ।
[00:30.87] स्वस्ति न इन्द्रो वृद्धश्रवाः ।
[00:41.60] स्वस्ति नः पूषा विश्ववेदाः ।
[00:47.09] स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
[00:52.59] स्वस्ति नो बृहस्पतिर्दधातु ॥
[00:58.10] ॐ शान्तिः शान्तिः शान्तिः ॥
[01:11.08] ॐ नमस्ते गणपतये ॥१॥
[01:16.33] त्वमेव प्रत्यक्षं तत्त्वमसि ।
[01:20.59] त्वमेव केवलं कर्ताऽसि ।
[01:23.34] त्वमेव केवलं धर्ताऽसि ।
[01:26.83] त्वमेव केवलं हर्ताऽसि ।
[01:30.33] त्वमेव सर्वं खल्विदं ब्रह्मासि ।
[01:33.59] त्वं साक्षादात्माऽसि नित्यम् ॥२॥
[01:39.33] ऋतं वच्मि । सत्यं वच्मि ॥३॥
[01:44.81] अव त्वं माम् ।
[01:46.31] अव वक्तारम् ।
[01:48.33] अव श्रोतारम् ।
[01:50.32] अव दातारम् ।
[01:53.33] अव धातारम् ।
[01:55.82] अवानूचानमव शिष्यम् ।
[02:00.32] अव पुरस्तात् ।
[02:05.82] अव दक्षिणात्तात् ।
[02:06.07] अव पश्चात्तात् ।
[02:08.33] अवोत्तरात्तात् ।
[02:14.55] अव चोर्ध्वात्तात् ।
[02:16.30] अवाधरात्तात् ।
[02:19.54] सर्वतो मां पाहि पाहि समन्तात् ॥४॥
[02:25.57] त्वं वाङ्मयस्त्वं चिन्मयः ।
[02:29.30] त्वमानन्दमयस्त्वं ब्रह्ममयः ।
[02:33.05] त्वं सच्चिदानन्दाऽद्वितीयोऽसि ।
[02:38.31] त्वं प्रत्यक्षं ब्रह्मासि ।
[02:41.55] त्वं ज्ञानमयो विज्ञानमयोऽसि ॥५॥
[02:46.30] सर्वं जगदिदं त्वत्तो जायते ।
[02:51.55] सर्वं जगदिदं त्वत्तस्तिष्ठति ।
[02:56.54] सर्वं जगदिदं त्वयि लयमेष्यति ।
[03:01.56] सर्वं जगदिदं त्वयि प्रत्येति ।
[03:06.28] त्वं भूमिरापोऽनलोऽनिलो नभः ।
[03:11.32] त्वं चत्वारि वाक् {परिमिता} पदानि ।
[03:14.55] त्वं गुणत्रयातीतः ।
[03:18.04] त्वं अवस्थात्रयातीतः ।
[03:21.78] त्वं देहत्रयातीतः ।
[03:22.82] त्वं कालत्रयातीतः ।
[03:24.81] त्वं मूलाधारस्थितोऽसि नित्यम् ।
[03:29.29] त्वं शक्तित्रयात्मकः ।
[03:29.54] त्वां योगिनो ध्यायन्ति नित्यम् ।
[03:37.55] त्वं ब्रह्मा त्वं विष्णुस्त्वं
[03:40.28] रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
[03:46.53] वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं
[03:51.54] ब्रह्म भूर्भुवस्सुवरोम् ॥६॥
[03:56.04] गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् ।
[04:04.78] अनुस्वारः परतरः ।
[04:08.02] अर्धेन्दुलसितम् ।
[04:11.52] तारेण ऋद्धम् ।
[04:14.05] एतत्तव मनुस्वरूपम् ॥७॥
[04:17.77] गकारः पूर्वरूपम् ।
[04:21.30] अकारो मध्यरूपम् ।
[04:25.01] अनुस्वारश्चान्त्यरूपम् ।
[04:27.51] बिन्दुरुत्तररूपम् ।
[04:30.50] नादस्संधानम् ।
[04:33.25] सग्ंहिता संधिः ॥८॥
[04:35.25] सैषा गणेशविद्या ।
[04:37.75] गणक ऋषिः ।
[04:39.75] निचृद्गायत्रीच्छन्दः ।
[04:42.75] गणपतिर्देवता ।
[04:45.24] ॐ गं गणपतये नमः ॥९॥
[04:51.22] एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
[04:58.73] तन्नो दन्तिः प्रचोदयात् ॥१०॥
[05:03.97] एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।
[05:09.98] रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
[05:13.20] रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।
[05:22.72] रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम् ॥
[05:26.96] भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
[05:35.95] आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।
[05:42.95] एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥११॥
[05:50.71] नमो व्रातपतये ।
[05:54.70] नमो गणपतये ।
[05:58.19] नमः प्रमथपतये ।
[06:01.69] नमस्तेऽस्तु लम्बोदरायैकदन्ताय
[06:07.68] विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॥१२॥
